Mannargudi Periyava


மன்னார்குடிப் பெரியவாள்

एकैकस्य शास्त्रस्य पारङ्गताः वर्तमानकाले अतीव दुर्लभाः | पूर्वाचार्याणां मध्ये श्रीमदप्पय्यदीक्षितेन्द्रः वेदान्तदेशिकः वाचस्पतिमिश्रः इत्यादयो विद्वांसः ‘सर्वतन्त्रस्वतन्त्रः’ इति ख्यातिना प्रसिद्धाः | तादृशस्य दीक्षितस्य कुलोत्पन्नः महामहोपाध्यायः श्रीत्यागराजमखिनः | काञ्चीमहास्वामिना चन्द्रशेखरेन्द्रसरस्वतिना द्राविडभाषायां “மன்னார்குடிப் பெரியவாள்” इत्यादरेण व्यवह्रियते | तेषां विषये लोके प्रसिद्धोयं प्रशस्ति श्लोकोऽपि वर्तते |

उभौ तौ विश्रुतौ लोके स यथा शम्भुरीश्वरः |
दीक्षिता अप्पयज्वानः शास्त्रिणो राजुशास्त्रिणा ||

अयं भावः

यथा ईश्वरशब्दः परमशिवं निर्दिशति, यथा दीक्षितः इति नाम विशेषतया श्रीमदप्पय्यदीक्षितेन्द्रमेव निर्दिशति तथा हि शास्त्रीति पदं राजुशास्त्रिणः एव निर्दिशति |

एवम्प्रकाराः ब्रह्मश्रीत्यागराजमखिनः चम्पाकारण्ये एकाकीमनुष्यरूपेण महाविश्वविद्यालयो भूत्वा अनेकान् विदुषः छात्रान् चाध्यापयन् | तेषां जननं तञ्जपुर्यां चम्पकारण्यक्षेत्रे क्रिस्तशताब्दे 1815 तमे वर्षे (युवसंवत्सरे वैशाखमासे 17-तमे दिने श्रवणनक्षत्रे ) अभूत् | तेषां पूर्वगता अस्य क्षेत्रस्य समीपे कूत्तम्पाडीति ग्रामे निवसन्ति स्म | शास्त्रिणः सलक्षणं सामवेदं पितामहात् नियमाध्ययनं कृत्वा पितुः मार्गसहायवेङ्कटसुब्रह्मण्यदीक्षितात् काव्यनाटकानि अधीतवन्तः | पञ्चदशवर्षीय वयसि संस्कृतपद्यरचनायां समर्थ आसन् | तेषां प्रथम आचार्यः श्रीनारायणसरस्वती | आचार्यादध्ययनात् पूर्वं कुलदैवं मार्गसहायेश्वरं हृदि ध्यात्वा तैः रचितश्श्लोकोऽयम् |

मरकतवल्ली सहचरममरतरुं कमपि सुलभमानमताम् |
मार्गसहायाभिख्य कुलदैवतमाश्रयामि सुरमुख्यम् ||

आदौ श्रीनारायण सरस्वतीयतीन्द्रात् वेदान्तशास्त्रमधीत्वा ततः परं परमगुरुं श्रीस्वयम्प्रकाशयतिं समागम्य वेदान्तशास्त्रं अध्यैष्ट | स्ववंशेजात मेलक्कावेरि चिन्नण्णा दीक्षितः तान् महाभाष्यमपाठयन् | मीमांसाशास्त्रे तेषां गुरवः कुम्भघोणं श्री रघुनाथ शास्त्रिणः | चम्पकारण्ये श्रीगोपलाचार्यात् तर्कशास्त्रं व्याकरणं चाधीत्य विंशतिवर्षीय वयस्येव वाद-प्रतिवादेषु तेषां पाण्डित्यमप्रापयन् |

2.आचार्यवृत्ति

राजुशास्त्रिणः चत्वारिंशतितमे वर्षे चम्पकारण्यक्षेत्रे आचार्यस्थानं गृहीत्वा अध्यापयन् | तेषां दैनन्दिनीचर्या इत्थमासीत् | प्रतिदिनं ब्रह्ममुहूर्ते स्नानात्परं, नद्यां द्यानवन्दनादीन् समाप्य गृहे पुनरागत्य अग्निसन्धानं कृत्वा जपं कुर्वन्ति स्म | तत्र विशेषतया दक्षिणामूर्तेः ध्यानविषये तत्पर आसन् | अष्टवादने वेदान्तशास्त्राध्ययनार्थं शिष्याः अगमन् | एकादशवादनपर्यन्तं वेदान्तपाठं प्रचलति स्म | तदनन्तरं माध्याह्निकं वैश्वदेवम् शिवपूजाञ्च समाप्य भोजनं कुर्वन्ति स्म | ततः पश्चात् तर्क-मीमाम्सा-व्याकरणालङ्कारशास्त्राण्यध्यापयन् | धर्मशास्त्रविषये संशयनिवारणार्थम् प्रतीक्षां क्रियमाणानां ग्रामजनानां संशय निवारणं कुर्वन्ति स्म | इत्थं सर्वाह्नं अध्ययन-अध्यापने कालं यापयन्ति स्म |

राजुशास्त्रिणः कृतित्वेन त्रिंशत् ग्रन्थाः समुपलभ्यन्ते | तेषु केचन ग्रन्थानधिकृत्य अत्र लेखिष्यामि |

सद्विद्याविलासः

वेदान्तग्रन्थोयम् | छान्दोग्योपनिषदि षष्ठाध्याये उद्दालक-श्वेतकेतयोः संवादस्य मुख्यांशः तत्त्वमसीति महावाक्यम् | व्याकरणरीत्या जीवब्रह्मैक्यतत्त्वस्य स्पष्टीकरणमस्य ग्रन्थस्य विशेषः | सवोपज्ञव्याख्यानमपि शास्त्रिणा कृतमस्ति |

वेदान्तवादसङ्ग्रहः

ग्रन्थेस्मिन् नैकविकल्पा अद्वैततत्त्ववादिनां प्रतिपाद्य तेषां वादप्रतिवादखण्डनवादांश्च ग्रन्थकृत् बोधयति |

ब्रह्मविद्यातरङ्गिणीव्याख्या

अयं ग्रन्थः स्वस्याचार्यस्य श्रीनारायणसरस्वतेः अद्वैततत्त्वप्रबन्धस्य विवरणव्याख्यानम् |

न्यायेन्दुशेखरः

श्रीमदप्पय्यदीक्षितेन्द्रस्य ग्रन्थेष्वेकः न्यायेन्दुशेखरः अथवा चन्द्रिकाप्रसादः | न्यायेन्दुशेखरः, अद्वैतसिद्धिः, ब्रह्म्मानन्दीयम् एतेषां ग्रन्थानां निग्रहणीयानां भागानां विषये मधवमतस्य श्री अनन्ताचार्याः न्यायभास्करः इति खण्दनग्रन्थं रचयाञ्चकार | न्यायभास्करं खण्डीकृत्य अद्वैतमेव उपनिषदां परमतत्त्वमिति स्थापानार्थं शास्त्रिणा ग्रन्थोयं निर्मितः | अप्रकाशितोयं ग्रन्थः | अस्य ग्रन्थस्य मङ्गलाचरणे “तद्हेतुकन्यायः” उपयुक्तः इति महास्वामिना सूच्यते (DK Vol 5)

अयं श्लोकः

अप्यन्यामरमारिराधयिषतां यत्पादपङ्केरुहद्वन्द्वाराधनम् अन्तरायहतये कार्यं त्ववश्यं विदुः |

तद्देतोरिति नीतिवित्तु भजते देवं यमेकं परं सर्वार्थप्रतिपादनैकचतुरो द्वैमातुरोऽव्यात् स नः ||

तात्पर्य्यम्

“अन्येषां दैवानां आराधयितुं इच्छुः, स्वपूजायाः विघ्नवारणार्थं विघ्नेश्वरस्य पादद्वन्द्वमवश्यमाराधनीयमिति जानात्येव | यः पूजकः तद्-हेतुक-न्यायं जानाति सः अन्यान् देवान्नाराधयमेकंपरं परमेश्वरपुत्रं भजते | इत्थम्भूतः गणेशः सर्वकार्यसिद्धिप्रदः मां रक्षतु |

सामरुद्रभाष्यम्

सामवेदस्य रुद्रसंहितायाः व्याख्यानमत्र प्रस्तूयते | सामवेदस्य रुद्रसंहितायां एकादशसामानि वर्तन्ते | एतेषु ये सायाणाचार्यैः भाष्यमकृतसाम्नां भट्टशोभाकरैः भाष्यं रचितम् | तेष्वपि अनुक्तनूतनविषयाः धातूनां अनेकार्थान् गृहीत्वा व्याकरणरीत्या त्यागराजाध्वारिणा सामरुद्रभाष्य ग्रन्थे दत्तमिति श्रीरामनाथदीक्षितः शास्त्रिणः जीवनचरित्रस्य प्राक्कथने लिखन्ति |

आराध्यादिमतदूषनम्

अस्य ग्रन्थस्य नाममात्रम् अस्ति | अन्यत् किमपि विवरणं न लभ्यते |

शिवमहिमकलिकास्तुति व्याख्या

शिवमहिमकलिका इति श्रीमदप्पय्यदीक्षितेन्द्रैर्विरचित स्तुतिग्रन्थः | अस्य ग्रन्थस्य विशेषः परमेश्वरपरश्लोके बहवः यज्ञपरविषयाः श्लेषरूपेण मीमांसा शास्त्रातुद् धृताः | प्रथमश्लोके सोमः इति परमेश्वरस्य नामधेयं सोमयागेन सह योजयित्वा अर्चयन्ति | ग्रन्थस्यास्य व्याख्यानस्यालभ्यमानत्वात् शास्त्रिणः व्याख्यां अभियाति | तैरुद्देश्यवचनं अस्य ग्रन्थस्य व्याख्यानं न विद्यते इति विषयं स्पष्टीक्रियते |

दीक्षिताश्च वचः क्वत्यं क्वत्याश्च वयमीदृशाः |
तथापि तद्विवरणं भक्त्यैव करवाण्यहम् ||

यत् सर्वत्र क्रतुफलदं यदखिलयज्ञादिता महितम् |
यत् सकलदेवरूपं ज्योतिस्तदुपास्महे सोमम् || 1 ||

व्या: यदिति | यत् ज्योतिः शिवनामधेयं परञ्ज्योतिः तद्धि ज्योतिषामपि ज्योतिः | तं देवा ज्योतिशाञ्ज्योतिरायुर्होपासतेऽमृतम् | अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्यादि श्रवणात् ज्योतिः कीदृशम् सोमम् उमासहितम् उपास्महे ध्यायामः |

यज्ञे सोमायागः प्रकृतिः | तथा मपरमेश्वरोऽपि अविकृतः प्रकृतिः तत्त्वम् | सोमयागस्य वाक्ये फल-सम्बन्धमस्ति | तथा हि परमेश्वरः फलधाता |

शिखरिणीमाला – शिवतत्त्वविवेकदीपिकाव्याख्या

शिवतत्त्वमिथ्यामतिं निवराणार्थं अप्पय्यदीक्षितेन्द्रैः कृता शिखरिणीमाला | शिवतत्त्वविवेकः इति व्याख्या अपि तै विरचिता | ग्रन्थस्यास्य खण्डनग्रन्थरूपेण परवस्तु वेदान्तदेशिकैः प्रणीतग्रन्थः वेदान्तकौस्तुभः इति | राजुशास्त्रिणा वेदान्तकौस्थुभस्याभिमतं खण्डयित्वा लिखिता व्याख्या शिवतत्त्वविवेकदीपिका |

पुरुषार्थप्रबोधसङ्ग्रहः

जीवने धर्माचारपरग्रन्थः पुरुषार्थप्रबोधः | अन्येभ्यो ग्रन्थेभ्यः सारमुद् धृत्य लिखितः ग्रन्थः पुरुषार्थप्रबोधसङ्ग्रहः |

दुर्जनोक्तिनिरासः

एकदा रामसुब्बाशास्त्रिणः इति एकः पण्डितः विभूति-रुद्राक्षधारणमभिमिथ्य शिवतत्त्वस्य निन्दां कृत्वा एको ग्रन्थः अलिखन् | राजुशास्त्रिणः शिष्यः शास्त्रिणं प्रति तं ग्रन्थमुपस्थापयति स्म | शास्त्रिणः तत्क्षणे शिष्यं आलिखत्वितयुक्त्वा लिखितवन्तः | ग्रन्थेस्मिन् रामसुब्बाशास्त्रिणः पूर्वजा अपि विभूति-रुद्राक्ष धारणाः तस्मात् कारणात् अल्पबुद्धिं त्यक्त्वा विशालबुद्धिं प्राप्य इत्युपदेशः कृतः |

स्तोत्राणि

त्यागराजदण्डकम् / त्यागराजस्तवम् / श्री त्यागेशरथोत्सववर्णनपरश्लोकाः

स्तूयते अनेन इति स्तोत्रशब्दस्य विग्रहः | नास्त्यत्र संदेहो यदास्थिकजनानां मनसि स्तोत्रसाहित्यस्य प्राधान्यम् | चोळदेशे तिरुवारूर् नगरे श्रीपुरीनिवासः श्रीत्यागेशस्य महत्त्वमत्रवर्ण्योविषयः | ततः परं त्यागराजस्तवमपि तैर्लिखीतेति | त्यागराजस्य देवालये महारथोस्ति | प्रतिवर्षं वसन्तोत्सवे आश्लेष नक्षत्रे तत्र रथोत्सवमामनन्ति | अस्मिन् विषये कृतस्तोत्रः श्री त्यागेशरथोत्सववर्णनपरश्लोकाः | अत्र देवताविशेषमधिकृत्यकृते स्तोत्रे सूक्ष्माद्वैततत्त्वविषयोऽपि सन्निगूढो भवति | तेषां स्तोत्रसाहित्ये नूतनोत्प्रेक्षा मनोहरति | त्यागेशस्य महारथः मेरोः इव उत्प्रेक्षते | त्वत् रथो कदाचित् वेगेन गच्छति , कदाचित् यद्यपि जनानां प्रयत्नात्पश्चादपि विलम्बेन गच्छति | अस्मात् त्वमेव श्रुतौ प्रतिपाद्यमान एकाकी परतत्त्वः (सत्यकामो सत्यसङ्कल्पः) | सर्वजीवराशयः भवदधीनः (अज्ञोरनीशोयम् ) इति निरूप्यते | यथा आत्मारोहण कारणात् सर्वे देहानिच्छन्ति तथा त्यागेशारोहणरथमपि भक्तेभ्यः रोचते |

अध्याससिद्धयदभेदवशेन देहम् अत्यन्तहेयमिदमप्यधिकप्रियं नः |
वस्तुस्वभाव यदि तेन किञ्चि-दध्यासितं तदिह कस्य न हि प्रियं स्यात् ||

ताम्रपरणीस्तुति

सह्यजानवरत्न मालिका

तिरुच्ची नगरस्य समीपे मणत्तट्टै इति ग्रामस्य भूमिपतेः निमन्त्रणात् तत्र गतवन्तः | तदा कावेरीनदीस्तुतिरूपेण श्लोकोऽयं विरचितः | सहयाद्री पर्वते जायमनात्वात अस्याः नद्याः सह्यजा इति नाम |

यत्पाथः कणवाहिमारुतलवस्पृष्टेरदृष्टेष्वपि प्रध्वंसं प्रबलैनसां विदुरिह प्राज्ञा भवाज्ञाजुषः |
सिष्णासां त्वयि बिभ्रतो मम चिरात् कृष्णाधिके सह्यजे निष्णातासि न किं विगाहनकृतः पङ्कौघसङ्क्षालने ||

श्रीराजगोपाल नवरत्नमालिका

स्तोत्रेस्मिन चम्पाकरण्ये श्री राजगोपालस्वामिनः रूपसौन्दर्यंमनेकधा वर्णयित्वा तस्य कटाक्षेण ह्यनल्प शास्त्रज्ञाः जीवितवत् अग्रहारः तस्मिन् ग्रामे अस्तीत्याह |

बाह् वृच्ये* सामवेदे यजुषि च निखिलेऽधीतिभिः स्फीतधीभिः पश्यत्पादियवैयासिकफणितिवाग्जैमिनिन्यायविद्भिः |
ज्योतिष्टोमादिसोमाध्वरहुतसुघृतखादिवस्वादिदेवैः विप्रैरेषोऽग्रहारः स्फुरति तव दृशा राजगोपोपगूढाः || 6 ||

*separately typed due to glyph issues.

श्रीराजगोपाल महोत्सवानुक्रमणिका

उत्फुल्लनीलनलिनोदर सोदरश्रीः उत्कूलसान्द्रकरुणा भरितान्तरङ्गः |
आभीरवामनयनानयनामृतांशुः आनन्दमाकल्यतां मम राजगोपः ||

चम्पकारण्यक्षेत्रे श्री राजगोपाल स्वामिनः वाहनानि गजः, हेरण्डपक्षिः , सिम्हः चन्द्रप्रभा, सूर्यप्रभा इत्यादीन्यपि

वर्णयन्ति |

अर्धनारीश्वरस्तवः

दीक्षितनवरत्नमालिका

दीक्षितवंशाभरणम्

चतुश्लोकीव्याख्या

प्रकीर्णग्रन्थेषु इयं चतुश्श्लोकीव्याख्या लक्षणीया | अस्याः व्याख्यायाः श्रीमदप्पय्यदीक्षितेन्द्रस्य जनीकालमनुरुद्ध्य टिप्पणी वर्तते | अस्मात् तस्य कालः क्रिस्तशताब्दे 1520-1593 इति निर्णेतुं शक्यम् | विक्रमे भूतलं प्राप्य विजये स्वर्गमाययुः |

शिष्याः :

महामहोपाध्याय हरिहरशास्त्रिणः

महामहोपाध्याय गणपतिशास्त्रिणः

महामहोपाध्याय यज्ञस्वामिशास्त्रिणः

नडुक्कावेरी श्रीनिवासशास्त्रिणः

पழमैनेरि सुन्दर शास्त्रिणः

श्री कृष्णमाचार्यः

तिरुप्पति वेङ्कटसुब्रह्मण्य शास्त्रिणः

मल्लारि रामकृष्ण शास्त्रिणः

महादेवाश्रमी परुत्तियूर् कृष्ण शास्त्रिणः

मरुत्तुवक्कुडि स्वामि शास्त्रिणः

मुख्यघटनाः

1836 – पुदुक्कोट्टै नवरात्रसदस्

1874 – सोमयागः

1887 – महामहोपाध्याय प्रशस्ति

अद्वैतसभायाः अध्यक्षः

शास्त्रिणः जीवचरित्रं तथा अन्यान् ग्रन्थान् तेषां वंशजातः श्रीजयरामशर्मणा दत्ताः | तेषां कृते मम कृतज्ञता समर्पयामि |

शास्त्रिणः जीवचरित्रं तथा अन्यान् ग्रन्थान् तेषां वंशजातः श्रीजयरामशर्मणा दत्ताः | तेषां कृते मम कृतज्ञता समर्पयामि | **