॥ श्रीशङ्करविजयम् – अनन्तानन्दगिरिप्रणीतम् ॥ – 1
॥ श्रीगणेशाय नमः ॥ ॥ श्रीशङ्करविजयम् ॥ ॥ शास्त्रोपकरणम् ॥ नमामि शङ्कराचार्यगुरुपादसरोरुहम् । यस्य प्रसादान्मूढोऽपि सर्वज्ञोऽहं सदाऽभवम् ।। अनन्तानन्दगिरिरहमप्रतिहताज्ञस्य भगवतः शिष्यः मम परमगुरोरवतारप्रयोजनं वर्णयामि । अत्र मम परमगुरोरवतारकथा, तदुपकृति-पोषित-जगत्परंपराऽविच्छिन्न-शुद्धाद्वैत-विद्या-प्रतिष्ठा, तदाशा-विजय-कौतूहलं, तद्वयास-दर्शन-विचित्र-प्रस्तावं, तच्छरीरावसान-कालागत-ब्रह्म-देव-वचनं, व्यास-दत्तायु प्रपञ्चनं, वियन्मार्गसञ्चारः , कैलासदर्शनं, भट्टदर्शनं, मण्डनमिश्रविजयः, तदङ्गनाप्रसङ्गः, Continue Reading …