॥ श्रीशङ्करविजयम् – अनन्तानन्दगिरिप्रणीतम् ॥ – Prakaranam 2 – Part 2

ते ‘अहरहस्सन्ध्यामुपासीत’ इत्यादि विधिवचनानि पीडयन्ति।  कर्मभ्रष्टान् परानन्ददूरांश्चैतान् नराधमान् ।स दृष्ट्वा नारदश्शीघ्रमाप ब्रह्मपदान्तिकम् ॥  भो धातः ! नूतनमभूज्जगदेतदर्वाक्वाचित्रयुक्तिपरिकल्पितकर्मशीलम् ।कालादिजात! निगमार्थपरम्परा स्याद् व्यर्था तदा यदि भवन्मतमप्रमाणम् ॥  भवद्भिः पूर्वमिदमुक्तम् – ‘सदेव सौम्येदमग्र आसीत् ‘ [छा. उ. ६-२-१], ‘ब्रह्म वा इदमग्र आसीत् ‘ Continue Reading …