॥ श्रीशङ्करविजयम् – अनन्तानन्दगिरिप्रणीतम् ॥ – Prakaranam 2 – Part 1

॥ गुरोरवतारकथा ॥  तत्र भगवांश्चतुर्मुखः स्वमुखबाहूरुपादेभ्यः किल ब्रह्मक्षत्रवैश्यशूद्रान्निर्माय संसारचक्राधिदेवः शिवविष्णुब्रह्मगणपत्युपासकान् कृत्वा जातिधर्मपरिपालनं तपोविधिना कल्पपर्यन्तमाचकार। ततः प्रवृत्तेषु कृतादिषु युगेषु ब्राह्मणादयः सत्यधर्मतपोयज्ञविद्यादिपरिशोभितशीलाः “सर्वदेवमयः स्वजातिदेवः” इति सम्यग्विचारसंपन्नाः स्वेशैक्यधीनिर्जितभिदाद्यन्तरायाः सदा श्रुत्यर्थपर्यालोचनतत्परा बभूवुः । पूज्येषु सेवका नीचाः पुण्यमार्गक्रमानुगाः ।  तत्तद्देवपदं प्रापुर्यथाजातिकुलस्थितिः  ॥  विप्राणां दैवतं शम्भुः Continue Reading …

॥ श्रीशङ्करविजयम् – अनन्तानन्दगिरिप्रणीतम् ॥ – 1

॥ श्रीगणेशाय नमः ॥ ॥ श्रीशङ्करविजयम् ॥ ॥ शास्त्रोपकरणम् ॥  नमामि शङ्कराचार्यगुरुपादसरोरुहम् । यस्य प्रसादान्मूढोऽपि सर्वज्ञोऽहं सदाऽभवम् ।।  अनन्तानन्दगिरिरहमप्रतिहताज्ञस्य भगवतः शिष्यः मम परमगुरोरवतारप्रयोजनं वर्णयामि ।  अत्र मम परमगुरोरवतारकथा, तदुपकृति-पोषित-जगत्परंपराऽविच्छिन्न-शुद्धाद्वैत-विद्या-प्रतिष्ठा, तदाशा-विजय-कौतूहलं, तद्वयास-दर्शन-विचित्र-प्रस्तावं, तच्छरीरावसान-कालागत-ब्रह्म-देव-वचनं, व्यास-दत्तायु प्रपञ्चनं, वियन्मार्गसञ्चारः , कैलासदर्शनं, भट्टदर्शनं, मण्डनमिश्रविजयः, तदङ्गनाप्रसङ्गः, Continue Reading …